Item
Text
Venvaroha of Madhava of the Sangamagrama with the Malayalam Commentary of Acyuta Pisarati Critically Edited with Introduction & Appendix
Selected resources
No selection
- Title
- Venvaroha of Madhava of the Sangamagrama with the Malayalam Commentary of Acyuta Pisarati Critically Edited with Introduction & Appendix
- en Veṇvāroha of Mādhava of the Saṅgamagrāma with the Malayalam Commentary of Acyuta Piṣāraṭi
- sa सङ्गमग्राम माधव विरचितः वेण्वारोहः
- ml മാധവകൃതമായ വേണ്വാരോഹം തൃക്കണ്ടിയൂർ അച്യുതപിഷാരടി ഉണ്ടാക്കിയ വ്യാഖ്യാനത്തോടുകൂടിയത്
- Language of Original Text
- Sanskrit
- Malayalam
- list of authors
- Mādhava of Saṅgamagrāma
- Tṛkkaṇṭiyūr Acyuta Piṣāraṭi
- Date of Original Text
- AD 1400
- list of editors
- K V Sarma
- Subject
- Astronomy
- Mathematics
- Language of Edited Volume
- Malayalam
- Sanskrit
- Publisher
- The Sanskrit College Committe, Tripunithura(Kerala)
- issue
- Sri Ravi Varma Sanskrit Series No.7
- Date Issued
- 1956
- Source
- This edition of Veṇvāroha is based on its available three manuscripts which are now deposited in the Govt. Sanskrit College Thrippunithura as its Manuscript Number Ms.No.1054-O, The Kerala University Oriental Research Institute and Manuscript Library, Trivandrum, as its Ms.No.10629-O and the third one which is given by Brahmasri Tathan Namboothirippadu of Eravoor Elambrakkottu Mana.
- abstract
-
Veṇvāroha, the title, literally means ‘Ascending the Bamboo’ and this title is reflective of the moon’s computation in 9 steps over a day. This treatise makes use of the anomalistic revolutions for computing the true moon using the successive true daily velocity of moon framed in vākyas for easy memorization and use.The work has not been divided into chapters. It contains 74 verses, all these verses are in Anuṣṭup metre. Veṇvāroha starts with Maṅgaḷaśḷoka
श्रियै भवतु मे देवः शिवश्शीतांशुशेखरः ।
तथैव तत्सुतोप्यस्तु विघ्नो विघ्नोपशान्तये ।।
(Veṇvāroha 1)
Like this, through the first three verses, he offers his tribute to Lord Śiva, Vighneśvara, Goddess Sarasvatī and the terrestrial bodies such as The Sun, The Moon, etc. in the next seven verses explains the connection and purpose ‘anubandhacatuṣṭaya’.
Without knowing kaṭapayādi system one could not follow the text. After the mention of numerical notation, the author reveals his identity. in the 14th and 15th verses, the author mention the viṣaya and adhikāri
In the 19th verses onwards, Mādhava started to describe the Method for computing the true moon ‘candrasphuṭa’ by Veṇvārohakriya. Without knowing kaṭapayādi system one could not follow the text. The following verse may be quoted as an instance.
“दीननम्रानुशास्यो” नं दिनराशिं कलेर्गतम् ।
शिवदूता हतं हत्वा पर्याप्तहृदये न यत् ।।
(Veṇvāroha 19)
This verse says that the product that obtained should be divided by ‘पर्याप्तहृदयम्’. Here पर्याप्तहृदयम् denotes the digits 188611 by means of kaṭapayādi system(प =1, य =1, त= 6, ह =8, द =8, य =1 ). To find out the product, Tomultiply the ‘शिवदूता’ with the difference between ‘इष्टकलिदिनम्’ and ‘दीननम्रानुशास्यम्’. Here शिवदूता also denotes the digits 6845 by kaṭapayādi notation system. This is the style of composition.
At the very beginning, Mādava describes the method for computing the Dhruva sādhana for calculating candrasphuṭa. Dhruva sādhana is explained in two verses which are 19 and 20. After that, there are explanations for finding Vākyasaṁkhyās, Dhruvakālas, Dhruvas, etc. and also explains the need and method for calculating the corrections for the equation of time (Bhujāntara saṁskāra), the terrestrial Longitude(Deśāntara saṁskāra), Declensional Ascensional difference (Caradalaṃ). The author completed his work by stating that he is going to explain the set of Moon sentences ‘Candravākyas’, beginning with शीलं राज्ञः श्रिये (0s 120 2’ 35’’) which are composed by the same author himself. He states these by the following verses.
शीलं राज्ञः श्रिये कृत्वा प्राक् पुनर्येन निर्मितम् ।
विलिप्तिकादिकं वाक्यजातं तेनेयमीरिता ।।
(Veṇvāroha 73)
श्लोकैरेकोनषष्टयेत्थमभिधाय क्रियाक्रमम् ।
क्रमशस्तानि सूक्ष्माणि वक्तुं वाक्यान्युपक्रमे ।।
(Veṇvāroha 74) - Description
- Veṇvāroha of Mādhava of Saṅgamagrāma with the commentary of Acyutapiṣāraṭī of Trikkaṇṭiyūr has been critically edited by K.V Sarma and published by Govt. Sanskrit College, Thrippunithura in 1956.
- content
-
सङ्गमग्राममाधवविरचितः
वेण्वारोहः
श्रियैः भवतु मे देवः शिवश्शीतांशुशेखरः।
तथैव तत्सुतोप्यस्तु विघ्नो विघ्नोपशान्तये।।1।।
अविचारकृतं वाचामचातुर्यमपोहतुः।
जाग्रती रसनाग्रे मे गिरामप्यधिदेवता।।2।।
प्रभाकरादयस्सर्पे प्रणतान्तः प्रभाकराः।
दिवि ग्रहाःप्रसीदन्तु त्रिलोकानन्दि विग्रहाः।।3।।
विधुवाक्यध्रुवैक्येन तिथिनक्षत्रलक्षणे।
प्रागेव तदुपायेपु कथिनेष्वपि कैश्चन।।4।।
इतस्ततः प्रकीर्णानां प्रक्रियाणामसङ्ग्रहात्।
उपेयुपां बहून्मोहान् बहूनामवलोकनात्।।5।।
ता एवैकत्र संगृह्य गतितुं विस्तरं विना।
तत्साधनेषु चैकैकान् भेदान् दर्शयितुं क्वचित्।।6।।
क्वचनोपायमेवान्यं लघुं वक्तुं, तदीरितात्।
गुरुमप्यपरं क्वापि स्थूलसूक्ष्मतयोभयोः।।7।।
अपि तन्मार्गमेवैकमेकेनाप्रतिबोधितम्।
अदृष्टमेव वा स्पष्टं दृष्टाऽदुष्टेन चेतसा।।8।।
अमुमेवाग्र्यमध्वानमपरं, त्वानुषङ्गिकम्।
अत एवाधिकं सौक्ष्म्यमपि बोधयितुं विधोः।।9।।
अयं जनोऽद्य यतते धियं जनयतेदृशीम्।
पण्डिताः खण्डिताशेषपरपक्षपरिग्रहाः।।10।।
वक्तुं सङ्ख्याविशेषांस्तु वर्णैस्तन्मात्रसूचकैः।
पद्यानि रचये भूयांस्यद्य जिह्रेमि नो इह।।11।।
यत्किञ्चिदभिधायेत्यं शुश्रूषुभ्यो मया भुवि।
प्रकृष्टश्रवणाभ्यासप्रसादोयं प्रसार्यते।।12।।
बकुलाधिष्ठितत्वेन विहारो यो विशेष्यते ।
गृहनामनि सोयं स्यान्निजनामनि माधवः ।।13।।
अधोधः क्रमशोतीतचन्द्रतत्तुङ्गसङ्गमात् ।
प्रत्यहं वाक्यनवकात् स्फुटचन्द्राप्तिरुच्यते ।।14।।
श्रुतमात्रे प्रकारेस्मिन्नस्याद्यस्यातिविस्मयः ।
स्वस्यैवानधिकारेण स न गृह्णात्विमां गतिम् ।।15।।
प्रणम्य प्रणयाम्येनां साधवो माधवोस्मि यः ।
भवद्भयः प्रणतोन्नत्यै भवद्भयः किन्न लभ्यते ।।16।।
विविच्य यूयमेवैतां गृह्णीत गुणतत्पराः ।
विश्वासादुपपत्तीनां विश्वासायाल्पचेतसाम् ।।17।।
यावन्ति व्यसनान्यस्यामुपायैः पूर्वदर्शितैः ।
सार्वकालस्थकार्यायां नत्वेष्वेकमिहास्ति हि ।।18।।
वेण्वारोहक्रिया ।
“दीननम्रानुशास्यो” नं दिनराशिं कलेर्गतम् ।
शिवदूता हतं हत्वा पर्याप्तहृदये न यत् ।।19।।
लभ्यते तेन कर्तव्या वक्ष्यमाणा विधोर्ध्रुवाः ।
तेनैवाद्यस्तथैकैकरहितेन तदष्टकम् ।।20।।
वाक्यसंख्या ।
शिष्टात्तु शिवदूता प्ता वाक्यसङ्ख्याग्रिमा ततः ।
मुहुः प्रक्षिप्त पर्याप्तहृदया त् क्रमशः पराः ।।21।।
ध्रुवकालः ।
प्रथक्तच्छेषरहित शिवदूता त्प्रिया हतात् ।
धृतालय हृता नाट्यो ध्रुवकाला इमे स्मृताः ।।22।।
ध्रुवाः
लिप्तादि सत्त्वावान् रामो मानकामेऽग्रिमे फले ।
स च विश्वैकनाथ श्च तस्मिन् वृतियुते ध्रुवः ।।23।।
ततोधिकन्तु तत्रांशा गोगुणा, विगुणाः कलाः ।
सुगुणा विकला, स्तासु तद् गौरांशं विशोधयेत् ।।24।।
साधयित्वा ध्रुवांश्चैव ध्रुवकालांस्तथाऽनयेत् ।
आद्यमल्पतमं कृत्वा यथाधिकतमोन्तिमः ।।25।।
तैस्सार्धं तत्र तत्र स्युः सह, तद्वाक्यसङ्ख्यया ।
तद्ध्रुवास्तत्फलञ्चाग्र्यमर्कमध्यविवित्सया ।।26।।
वेण्वारोहः।
तत्राप्यौत्पत्तिकोस्त्येव वेण्वारोह इव क्रमः ।
द्युनिशोरविशेषेण तयोस्तत्पार्श्वयोरिव ।।27।।
उपर्युपरि सर्वे च ध्रुवास्स्युः क्रमशः स्थिताः ।
वाक्यसङ्ख्यास्तथाधोधो व्यत्यये व्यत्ययादपि ।।28।।
प्रमुष्टसम्प्रदायस्य प्रक्रियेयमुदाहृता ।
तत एवाञ्जसाऽमीषां भवेदवगमोऽन्यथा ।।29।।
एकस्मिन् ध्रुवकाले या वाक्यसङ्ख्याऽवतिष्ठते ।
शशहीना पुनस्सा स्यादल्पाऽस्मा ल्लुब्धकाघिका ।।30।।
तीर्थकाङ्गान्मृगानिक भक्तभागादिकध्रुवः ।
प्रगुणः सगुणस्स्वर्णं क्रमात्तद्वाक्यसङ्ख्ययोः ।।31।।
ध्रुवकालोपि येनैकः साध्यते तदनन्तरम् ।
तेन सर्वार्थयुक्तेन दीनदानयुनेन च ।।32।।
अस्मिनन्तरातीते समस्तन्तद्विपर्ययात् ।
एकद्वित्र्यन्तरे कार्ये कर्तव्यस्तत्समुञ्चयः ।।33।।
नाडाषष्ट्यन्तरे सैका व्येका चैवमुपर्यधः।
वाक्यसङ्ख्या ध्रुवो नान्यः सा गतिः सार्धलौकिकी ।।34।।
इत्थं तथैव वा ज्ञात्वा तत्तद्वाक्यद्भ्रुवैस्सह ।
कालांस्तांस्तेषु कार्योन्यस्संस्कारस्सोभिधीयते ।।35।।
आदित्यमध्यमम् ।
आदिकूर्मेग्रिमफले कर्कशानेककार्यकृत् ।
अर्कमध्यं विलिप्ताद्यं विद्यात्तद्विधयेऽञ्जसा।।36।।
दाराधीनसुखं धीघ्नं युगांशञ्च ततोधिके ।
वाराधिपास्तकार्यं तत् सर्वसङ्ख्ये दिने तथा ।।37।।
दिनगतिः।
गतिर्मध्या भवत्यार्की प्रत्यहं धर्मलिप्तिकाः ।
दानसङ्ख्या विलिप्ताश्च स्व सर्वांशसमन्विताः।।38।।
कुर्यात्तत्कालमध्यार्कं वाक्यसङ्ख्यावशादिति ।
अन्यथा भिन्नकालत्वादसम्बन्धादसाधनम् ।।39।।
भुजान्तरसंस्करणः ।
तत्कालमध्यमार्कस्य स्वोच्चहीनस्य दोर्गुणात् ।
अध ऊर्ध्वार्धजात् स्वर्णमातपाप्ता विनाडिकाः।।40।।
रेखांशसंस्करणः ।
प्राक्पश्चात्समरेखायास्तथादेशान्तरासवः ।
तद्विदां सम्प्रदायाद्धि तदीयत्तावगम्यते ।।41।।
चरदलसंस्करणः।
स्फुटीकृत्य पुनर्भानुं सायनस्यास्य दोर्वशात् ।
गुणोद्यानादयो ग्राह्या गुणाश्चरदलाप्तये ।।42।।
छाया वैषुवती यत्र द्युङ्गुला तत्र केवलम् ।
गुर्वक्षरात्मकमिदं विद्याच्चरदलंकृतम् ।। 43।।
ततो न्यूनाधिकायान्तु तस्यान्तदनुपाततः ।
सायनेऽर्केऽज्जूकादौ ज्ञेया तस्य धनर्णता ।।44।।
तेषामेकविधत्वेस्यादेकीभूतानि तानि सः ।
भेद एकस्य चेत्तस्य चापरैक्यस्य चान्तरम् ।।45।।
तेनैव ध्रुवकालांस्युः वाक्यकालस्स संस्कृतः ।
चरार्धमात्रसंस्काराद्दिनार्धं शुकनाडिकाः ।।46।।
दिनमानालघीयांसस्तेऽहन्येव निशीतरे ।।47 A।।
तेषु च ध्रुवयुक्तानि वाक्यानि स्फुटशीतगुः ।।47 B ।।
ततस्तरन्तराळेषु स भवत्यनुपाततः ।।48 A।।
तस्य तत्कालगमनं यतस्तद् द्वितयान्तरम् ।।48 B।।
कठोरं निष्ठुरश्चैके क्षिपन्त्यूर्ध्वन्त्यजन्त्यधः ।
यथोक्तवाक्यसङ्ख्यायां सुखं दुःखमतोन्यथा ।।49।।
तदन्तरं निहत्येष्टनाड्या नत हतं ततः ।
धनर्णं विदधात्यूर्ध्वमधश्चेन्दावथोदिते ।।50।।
अस्ति कश्चिदभिप्रायस्तेषां यैरेवमिष्यते ।
अत्राहोरात्रगत्येन्दोर्भुक्तिरुक्ता भवन्ति ति।।51।।
प्रथमं प्रथमोक्तेस्तु प्रकारे प्रत्ययोऽनयोः ।
सौकर्यात् तत्फलैक्याच्च विधेयेयं विधेति च ।।52।।
प्रतिक्षणं प्रभिन्नापि स्फुटा चान्द्रमसी गतिः ।
इहैकस्मिन्नहोरात्रे नवधा त्ववधार्यते ।।53।।
ततोऽष्टादश तद्भेदा नवभिस्तैर्न दुष्कराः ।
आसन्नद्वयसंयोगदलनादन्तरान्तरा ।।54।।
वाक्यकालेष्वसावेव यैवमुक्ता मयाधुना ।
मध्ये मध्ये तदुक्ता च गतिर्ग्राह्या मनीषिभिः ।।55।।
अन्तराळचतुर्भागैराद्यमध्यद्वयान्तिमैः ।
विधायतद्ध्रुवस्थां च कुर्यात् कर्मं यथोदितम् ।।56।।
तत्कालसूक्ष्मगत्यापि न युक्तमनुपातनम् ।
अगत्या तद्विधिर्गत्या तथापि क्रमते बुधैः ।।57।।
विधेयमेवमेवार्के विदित्वास्य गतिं स्फुटाम् ।
तथा तन्मध्यमे कृत्वा कुर्याद्वा तत्फुटक्रियाम् ।।58।।
स्वर्णं स्वोच्चोनमध्यार्ककर्किनक्रादिषट्कजाः ।
कोटिज्यात्माशयहृता गतिर्मध्यास्य सा स्फुटा ।।59।।
तत्फलं वा जनेनादि गृहीत्वा तद्युगांशयुक् ।
विदधीत विलिप्तासु तद्वदेव धनर्णताम् ।।60।।
भुजाफले स्वयं ग्राह्ये जनेनादि न साधनम् ।
तद्गुणो गोगुणो नादहृतश्चापि कृतश्च यत् ।।61।।
इष्टाङ्गनाखो नित्यं अशेषमदनार्तिनुत् ।
भागमात्रगतेर्भानोः स्फुटद्वयमिदं विदुः ।।62।।
ज्ञानाज्ञानदयार्द्रेऽर्के ततः शिशुतमा गतिः ।
अनूननादकन्देस्मिन् परिपूर्तिं व्रजत्यसौ ।।63।।
योग्या योग्यादिनैवेत्थं न सा साधयितुं सदा ।
यतितव्यमतो नित्यं तन्मध्याय स्फुटाय च ।।64।।
विलिप्तिकान्तगणनमस्याप्यावश्यकं यतः ।
अन्यथा न तिथिः सूक्ष्मा द्यर्कशीतांशुसाधना ।।65।।
स्थूलेनाप्यर्कमध्येन स्फुटेन च पुरोदिते ।
संस्कारे न भिदा काचिन्न तथापि तिथौ तथा ।।66।।
प्रातः प्रातः प्रसाध्यापि तावन्योन्यं तदन्तरात् ।
उक्तमेवानुपातेन तद्विशेषांशनिर्णयः ।।67।।
सतीष्टसमये साध्यस्तस्मिन्नेव स धीमता ।
तेन तौ ध्रुवकालौ च संस्कार्यौ तददूरकौ ।।68।।
उक्तोपि ध्रुवकालेषु स पुरा पुनरिष्यते ।
सूर्यसंक्रमवाक्येषु सूक्ष्मद्युगतसिद्धये ।।69।।
अहर्गणेऽप्ययं शक्यः कर्तुसृमुक्तविपर्ययात् ।
स हि तत्संस्कृतो नित्यं भवत्यर्कोदयाद् गतः ।।70।।
वदतैतावदेवेत्यं यन्मया नोक्तमन्तरा ।
सिद्धं कृत्वा समक्षेपि समक्षेऽपि तदस्तु वः ।।71।।
इति सङ्गृह्य सन्देहान् हन्तुं हन्त सतः सताम् ।
अभ्यधां गतिमर्केन्द्वोः सदा सञ्चरतोर्दिवि ।।72।।
शीलं राज्ञः श्रिये कृत्वा प्राक् पुनर्येन निर्मितम् ।
विलिप्तादिकं वाक्यजातं तेनेयमीरिता ।। 73।।
श्लोकैरेकोनषष्टयेत्थमभिधाय क्रियाक्रमम् ।
क्रमशस्तानि सूक्ष्माणि वक्तुं वाक्यान्युपक्रमे ।।74।।